Sarga 28: Sītā Resolves to Hang Herself
उद्बन्धनव्यवसायः
udbandhanavyavasāyaḥ — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ।।5.28.1।।
Meaning
सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ।।5.28.2।।
Meaning
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्त्स्यमाना जीवामि किञ्चित्क्षणमप्यपुण्या ।।5.28.3।।
Meaning
सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे । विशीर्यते यन्न सहस्रधाद्य वज्राहतं शृङ्गमिवाचलस्य ।।5.28.4।।
Meaning
नैवास्ति दोषं मम नूनमत्र वध्याहमस्याप्रियदर्शनस्य । भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ।।5.28.5।।
Meaning
नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः । तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ।।5.28.6।।
Meaning
दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ । बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ।।5.28.7।।
Meaning
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या । एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता ।।5.28.8।।
Meaning
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ । नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन ।।5.28.9।।
Meaning
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् । यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ।।5.28.10।।
Meaning