Sarga 31: The Story of Rāma Recited
रामवृत्तसंश्रवः
rāmavṛttasaṃśravaḥ — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।।5.31.1।।
Meaning
राजा दशरथो नाम रथकुञ्जरवाजिमान् । पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः ।।5.31.2।।
Meaning
राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः । चक्रवर्तिकुले जातः पुरन्दरसमो बले ।।5.31.3।।
Meaning
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः । मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवांल्लक्ष्मीवर्धनः ।।5.31.4।।
Meaning
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।।5.31.5।।
Meaning
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः । रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।।5.31.6।।
Meaning
रक्षिता स्वस्य वृत्तस्य स्वजनस्य च रक्षिता । रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ।।5.31.7।।
Meaning
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात्पितुः । सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ।।5.31.8।।
Meaning
तेन तत्र महारण्ये मृगयां परिधावता । राक्षसा निहताः शूरा बहवः कामरूपिणः ।।5.31.9।।
Meaning
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ । ततस्त्वमर्षापहृता जानकी रावणेन तु ।।5.31.10।।
Meaning