Sarga 35: Winning Sītā's Trust

विश्वासोत्पादनम्

viśvāsotpādanam — word-by-word gloss for all 89 shlokas.

Page 1 of 989 shlokas in this sarga (verified max-across-sources)
Shloka 35.1Word-by-word available

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् । उवाच वचनं सान्त्वमिदं मधुरया गिरा ।।5.35.1।।

Meaning

Shloka 35.2Word-by-word available

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् । वानराणां नराणां च कथमासीत्समागमः ।।5.35.2।।

Meaning

Shloka 35.3Word-by-word available

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।।5.35.3।।

Meaning

Shloka 35.4Word-by-word available

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् । कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।।5.35.4।।

Meaning

Shloka 35.5Word-by-word available

एवमुक्तस्तु वैदेह्या हनुमान्पवनात्मजः । ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ।।5.35.5।।

Meaning

Shloka 35.6Word-by-word available

जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि । भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ।।5.35.6।।

Meaning

Shloka 35.7Word-by-word available

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै । लक्षितानि विशालाक्षि वदतः शृणु तानि मे ।।5.35.7।।

Meaning

Shloka 35.8Word-by-word available

रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः । रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ।।5.35.8।।

Meaning

Shloka 35.9Word-by-word available

तेजसादित्यसङ्काशः क्षमया पृथिवीसमः । बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।।5.35.9।।

Meaning

Shloka 35.10Word-by-word available

रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता । रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ।।5.35.10।।

Meaning