Sarga 15: Sītā Found
सीतोपलभ्यः
sītopalabhyaḥ — word-by-word gloss for all 55 shlokas.
Jump to a shloka · 55 in this sarga
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् । अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ।।5.15.1।।
Meaning
सन्तानकलताभिश्च पादपैरुपशोभिताम् । दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ।।5.15.2।।
Meaning
तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् । हर्म्यप्रासादसम्बाधां कोकिलाकुलनिःस्वनाम् ।।5.15.3।।
Meaning
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् । बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ।।5.15.4।।
Meaning
सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः । पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ।।5.15.5।।
Meaning
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत । निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ।।5.15.6।।
Meaning
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः । आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ।।5.15.7।।
Meaning
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् । कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ।।5.15.8।।
Meaning
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः । पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ।।5.15.9।।
Meaning
विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः । शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।।5.15.10।।
Meaning