Sarga 1: The Leap across the Ocean
समुद्रलङ्घनम्
samudralaṅghanam — word-by-word gloss for all 210 shlokas.
Jump to a shloka · 210 in this sarga
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ।।5.1.1।।
Meaning
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः । समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ ।।5.1.2।।
Meaning
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः । धीरः सलिलकल्पेषु विचचार यथासुखम् ।।5.1.3।।
Meaning
द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् । मृगांश्च सुबाहून्निघ्नन्प्रवृद्ध इव केसरी ।।5.1.4।।
Meaning
नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः । स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् ।।5.1.5।।
Meaning
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः । यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः ।।5.1.6।।
Meaning
स तस्य गिरिवर्यस्य तले नागवरायुते । तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ ।।5.1.7।।
Meaning
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे । भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ।।5.1.8।।
Meaning
अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये । ततोऽभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ।।5.1.9।।
Meaning
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः । ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ।।5.1.10।।
Meaning