Sarga 27: Trijaṭā's Dream

त्रिजटास्वप्नः

trijaṭāsvapnaḥ — word-by-word gloss for all 51 shlokas.

Page 1 of 651 shlokas in this sarga (verified max-across-sources)
Shloka 27.1Word-by-word available

इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्छिताः । काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ।।5.27.1।।

Meaning

Shloka 27.2Word-by-word available

ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः । पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ।।5.27.2।।

Meaning

Shloka 27.3Word-by-word available

अद्येदानीं तवानार्ये सीते पापविनिश्चये । राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् ।।5.27.3।।

Meaning

Shloka 27.4Word-by-word available

सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा । राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ।।5.27.4।।

Meaning

Shloka 27.5Word-by-word available

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ । जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ।।5.27.5।।

Meaning

Shloka 27.6Word-by-word available

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः । राक्षसानामभावाय भर्तुरस्या भवाय च ।।5.27.6।।

Meaning

Shloka 27.7Word-by-word available

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः । सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः ।।5.27.7।।

Meaning

Shloka 27.8Word-by-word available

कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि । तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम् ।।5.27.8।।

Meaning

Shloka 27.9Word-by-word available

उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् । गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।।5.27.9।।

Meaning

Shloka 27.10Word-by-word available

युक्तां हंससहस्रेण स्वयमास्थाय राघवः । शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ।।5.27.10।।

Meaning