Sarga 57: Hanumān's Return
हनूमत्प्रत्यागमनम्
hanūmatpratyāgamanam — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।।5.57.1।।
Meaning
पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ।।5.57.2।।
Meaning
वातसङ्घातजातोर्मि चन्द्रांशुशिशिराम्बुमत् । भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ।।5.57.3।।
Meaning
हनुमान्मारुतगतिर्महानौरिव सागरम् । अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।।5.57.4।।
Meaning
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् । हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ।।5.57.5।।
Meaning
मारुतस्यात्मजः श्रीमान्कपिर्व्योमचरो महान् । हनुमान्मेघजालानि विकर्षन्निव गच्छति ।।5.57.6।।
Meaning
पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च । हरितारुणवर्णानि महाभ्राणि चकाशिरे ।।5.57.7।।
Meaning
प्रविशन्नभ्रजालानि निष्क्रामंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ।।5.57.8।।
Meaning
विविधाभ्रघनापन्नगोचरो धवलाम्बरः । दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेऽम्बरे ।।5.57.9।।
Meaning
तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः । दारयन्मेघबृन्दानि निष्पतंश्च पुनः पुनः ।।5.57.10।।
Meaning