Sarga 40: Hanumān Sent Back
हनूमत्प्रेषणम्
hanūmatpreṣaṇam — word-by-word gloss for all 25 shlokas.
Jump to a shloka · 25 in this sarga
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः । उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।।5.40.1।।
Meaning
त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर । अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।।5.40.2।।
Meaning
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः । संस्पृशेयं सकामाहं तथा कुरु दयां मयि ।।5.40.3।।
Meaning
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम । क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ।।5.40.4।।
Meaning
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः । त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।।5.40.5।।
Meaning
स वीर्यवान्कथं सीतां हृतां समनुमन्यसे । वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ।।5.40.6।।
Meaning
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः । एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ।।5.40.7।।
Meaning
एष निर्यातितः श्रीमान्मया ते वारिसम्भवः । अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।।5.40.8।।
Meaning
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः । राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।।5.40.9।।
Meaning
धारयिष्यामि मासं तु जीवितं शत्रुसूदन । मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।।5.40.10।।
Meaning