Sarga 41: The Pleasure Grove Wrecked
प्रमदावनभञ्जनम्
pramadāvanabhañjanam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया । तस्माद्देशादपक्रम्य चिन्तयामास वानरः ।।5.41.1।।
Meaning
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ।।5.41.2।।
Meaning
न साम रक्षःसु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते । न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ।।5.41.3।।
Meaning
न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । हतप्रवीरा हि रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ।।5.41.4।।
Meaning
कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ।।5.41.5।।
Meaning
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ।।5.41.6।।
Meaning
इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् । परात्मसंमर्दविशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम् ।।5.41.7।।
Meaning
कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । तथैव खल्वात्मबलं च सारवत्संमानयेन्मां च रणे दशाननः ।।5.41.8।।
Meaning
ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् । हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाहमितः पुनर्व्रजे ।।5.41.9।।
Meaning
इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ।।5.41.10।।
Meaning