Sarga 26: Resolving to Give Up Life
प्राणत्यागसम्प्रधारणम्
prāṇatyāgasampradhāraṇam — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।।5.26.1।।
Meaning
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।।5.26.2।।
Meaning
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा । रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।।5.26.3।।
Meaning
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् । चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।।5.26.4।।
Meaning
न हि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः । वसन्त्या राक्षसीमध्ये विना रामं महारथम् ।।5.26.5।।
Meaning
अश्मसारमिदं नूनमथवाप्यजरामरम् । हृदयं मम येनेदं न दुःखेनावशीर्यते ।।5.26.6।।
Meaning
धिङ्मामनार्यामसतीं याहं तेन विना कृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता ।।5.26.7।।
Meaning
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना । भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ।।5.26.8।।
Meaning
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् । न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।।5.26.9।।
Meaning
चरणेनापि सव्येन न स्पृशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगर्हितम् ।।5.26.10।।
Meaning