Sarga 12: Hanumān's Dejection

हनुमद्विषादः

hanumadviṣādaḥ — word-by-word gloss for all 25 shlokas.

Jump to a shloka · 25 in this sarga

Page 1 of 325 shlokas in this sarga (verified max-across-sources)
Shloka 12.1Word-by-word available

स तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान् । जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ।।5.12.1।।

Meaning

Shloka 12.2Word-by-word available

स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् । ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ।।5.12.2।।

Meaning

Shloka 12.3Word-by-word available

सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती । अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ।।5.12.3।।

Meaning

Shloka 12.4Word-by-word available

विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः । समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ।।5.12.4।।

Meaning

Shloka 12.5Word-by-word available

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् । न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ।।5.12.5।।

Meaning

Shloka 12.6Word-by-word available

दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः । न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ।।5.12.6।।

Meaning

Shloka 12.7Word-by-word available

किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः । गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ।।5.12.7।।

Meaning

Shloka 12.8Word-by-word available

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् । ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने ।।5.12.8।।

Meaning

Shloka 12.9Word-by-word available

किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः । गतं पारं समुद्रस्य वानराश्च समागताः ।।5.12.9।।

Meaning

Shloka 12.10Word-by-word available

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।।5.12.10।।

Meaning