Sarga 7: The Sight of Puṣpaka
पुष्पकदर्शनम्
puṣpakadarśanam — word-by-word gloss for all 17 shlokas.
Jump to a shloka · 17 in this sarga
स वेश्मजालं बलवान्ददर्श व्यासक्तवैडूर्यसुवर्णजालम् । यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं स विहङ्गजालम् ।।5.7.1।।
Meaning
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः । मनोहराश्चापि पुनर्विशालाः ददर्श वेश्माद्रिषु चन्द्रशालाः ।।5.7.2।।
Meaning
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि । सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ।।5.7.3।।
Meaning
तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि । महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ।।5.7.4।।
Meaning
ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम् । रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ।।5.7.5।।
Meaning
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् । नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ।।5.7.6।।
Meaning
नारीप्रवेकैरिव दीप्यमानं तटिद्भिरम्भोदवदर्च्यमानम् । हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ।।5.7.7।।
Meaning
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् । ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ।।5.7.8।।
Meaning
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः । वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम् ।।5.7.9।।
Meaning
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि । पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ।।5.7.10।।
Meaning