Sarga 32: Sītā's Doubts

सीतावितर्कः

sītāvitarkaḥ — word-by-word gloss for all 14 shlokas.

Jump to a shloka · 14 in this sarga

Page 1 of 214 shlokas in this sarga (verified max-across-sources)
Shloka 32.1Word-by-word available

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।।5.32.1।।

Meaning

Shloka 32.2Word-by-word available

सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् । फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।।5.32.2।।

Meaning

Shloka 32.3Word-by-word available

मैथिली चिन्तयामास विस्मयं परमं गता । अहो भीममिदं रूपं वानरस्य दुरासदम् ।।5.32.3।।

Meaning

Shloka 32.4Word-by-word available

दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा । विललाप भृशं सीता करुणं भयमोहिता ।।5.32.4।।

Meaning

Shloka 32.5Word-by-word available

रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी । रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ।।5.32.5।।

Meaning

Shloka 32.6Word-by-word available

सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ।।5.32.6।।

Meaning

Shloka 32.7Word-by-word available

सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् । ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ।।5.32.7।।

Meaning

Shloka 32.8Word-by-word available

सा तं समीक्ष्यैव भृशं विसञ्ज्ञा गतासुकल्पेव बभूव सीता । चिरेण सञ्ज्ञां प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ।।5.32.8।।

Meaning

Shloka 32.9Word-by-word available

स्वप्ने मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः । स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।।5.32.9।।

Meaning

Shloka 32.10Word-by-word available

स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः । सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ।।5.32.10।।

Meaning