Sarga 68: Hanumān's Assurances Recounted

हनूमत्समाश्वासवचनानुवादः

hanūmatsamāśvāsavacanānuvādaḥ — word-by-word gloss for all 29 shlokas.

Jump to a shloka · 29 in this sarga

Page 1 of 329 shlokas in this sarga (verified max-across-sources)
Shloka 68.1Word-by-word available

अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः । तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ।।5.68.1।।

Meaning

Shloka 68.2Word-by-word available

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया । यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ।।5.68.2।।

Meaning

Shloka 68.3Word-by-word available

यदि वा मन्यसे वीर वसैकाहमरिन्दम । कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ।।5.68.3।।

Meaning

Shloka 68.4Word-by-word available

मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वानर । अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ।।5.68.4।।

Meaning

Shloka 68.5Word-by-word available

गते हि त्वयि विक्रान्ते पुनरागमनाय वै । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।।5.68.5।।

Meaning

Shloka 68.6Word-by-word available

तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ।।5.68.6।।

Meaning

Shloka 68.7Word-by-word available

अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।।5.68.7।।

Meaning

Shloka 68.8Word-by-word available

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।।5.68.8।।

Meaning

Shloka 68.9Word-by-word available

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने । शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ ।।5.68.9।।

Meaning

Shloka 68.10Word-by-word available

तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।।5.68.10।।

Meaning