Sarga 38: The Tale of the Crow
वायसवृत्तान्तकथनम्
vāyasavṛttāntakathanam — word-by-word gloss for all 73 shlokas.
Jump to a shloka · 73 in this sarga
ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः । सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ।।5.38.1।।
Meaning
युक्तरूपं त्वया देवि भाषितं शुभदर्शने । सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ।।5.38.2।।
Meaning
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् । मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ।।5.38.3।।
Meaning
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ।।5.38.4।।
Meaning
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः । का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ।।5.38.5।।
Meaning
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः । चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ।।5.38.6।।
Meaning
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया । स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ।।5.38.7।।
Meaning
लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः । सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् ।।5.38.8।।
Meaning
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना । गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ।।5.38.9।।
Meaning
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते । अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ।।5.38.10।।
Meaning