Sarga 36: The Ring Given
अङ्गुलीयकप्रदानम्
aṅgulīyakapradānam — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
भूय एव महातेजा हनुमान्मारुतात्मजः । अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।।5.36.1।।
Meaning
वानरोऽहं महाभागे दूतो रामस्य धीमतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।।5.36.2।।
Meaning
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना । समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।।5.36.3।।
Meaning
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् । भर्तारमिव सम्प्राप्ता जानकी मुदिताभवत् ।।5.36.4।।
Meaning
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।।5.36.5।।
Meaning
ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता । परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।।5.36.6।।
Meaning
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।।5.36.7।।
Meaning
शतयोजनविस्तीर्णः सागरो मकरालयः । विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।।5.36.8।।
Meaning
न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ । यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः ।।5.36.9।।
Meaning
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् । यद्यसि प्रेषितस्तेन रामेण विदितात्मना ।।5.36.10।।
Meaning