Sarga 64: Hanumān and the Others Arrive
हनूमाद्यागमनम्
hanūmādyāgamanam — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः । राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ।।5.64.1।।
Meaning
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ । वानरैः सह तैः शूरैर्दिवमेवोत्पपात ह ।।5.64.2।।
Meaning
स यथैवागतः पूर्वं तथैव त्वरितं गतः । निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ।।5.64.3।।
Meaning
स प्रविष्टो मधुवनं ददर्श हरियूथपान् । विमदानुत्थितान्सर्वान्मेहमानान्मधूदकम् ।।5.64.4।।
Meaning
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् । उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ।।5.64.5।।
Meaning
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः । अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ।।5.64.6।।
Meaning
युवराजस्त्वमीशश्च वनस्यास्य महाबल । मौर्ख्यात्पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ।।5.64.7।।
Meaning
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ । इहोपयातं सर्वेषामेतेषां वनचारिणाम् ।।5.64.8।।
Meaning
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः । प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ।।5.64.9।।
Meaning
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः । शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ।।5.64.10।।
Meaning