Sarga 49: Rāvaṇa's Majesty Beheld
रावणप्रभावदर्शनम्
rāvaṇaprabhāvadarśanam — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत ।।5.49.1।।
Meaning
भ्राजमानं महार्हेण काञ्चनेन विराजता । मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।।5.49.2।।
Meaning
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः । हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।।5.49.3।।
Meaning
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् । स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ।।5.49.4।।
Meaning
विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः । दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ।।5.49.5।।
Meaning
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् । नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।।5.49.6।।
Meaning
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता । पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम् ।।5.49.7।।
Meaning
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः । भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः ।।5.49.8।।
Meaning
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते । उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ।।5.49.9।।
Meaning
अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः । वालव्यजनहस्ताभिरारात्समुपसेवितम् ।।5.49.10।।
Meaning