Sarga 25: Sītā's Despair
सीतानिर्वेदः
sītānirvedaḥ — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
तथा तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।।5.25.1।।
Meaning
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।।5.25.2।।
Meaning
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ।।5.25.3।।
Meaning
सा राक्षसीमध्यगता सीता सुरसुतोपमा । न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।।5.25.4।।
Meaning
वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः । वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।।5.25.5।।
Meaning
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारं भग्नमानसा ।।5.25.6।।
Meaning
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ।।5.25.7।।
Meaning
सा वेपमाना पतिता प्रवाते कदली यथा । राक्षसीनां भयत्रस्ता विषण्णवदनाभवत् ।।5.25.8।।
Meaning
तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा । ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।।5.25.9।।
Meaning
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना । आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।।5.25.10।।
Meaning