Sarga 55: Hanumān's Alarm
हनूमद्विभ्रमः
hanūmadvibhramaḥ — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः । निर्वापयामास तदा समुद्रे हरिसत्तमः ।।5.55.1।।
Meaning
सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् । अवेक्ष्य हनुमांल्लङ्कां चिन्तयामास वानरः ।।5.55.2।।
Meaning
तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत । लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया ।।5.55.3।।
Meaning
धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् । निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ।।5.55.4।।
Meaning
क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि । क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ।।5.55.5।।
Meaning
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ।।5.55.6।।
Meaning
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ।।5.55.7।।
Meaning
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् । अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ।।5.55.8।।
Meaning
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी । दग्धा तेन मया भर्तुर्हतं कार्यमजानता ।।5.55.9।।
Meaning
यदर्थमयमारम्भस्तत्कार्यमवसादितम् । मया हि दहता लङ्कां न सीता परिरक्षिता ।।5.55.10।।
Meaning