Sarga 52: The Envoy's Death Forbidden
दूतवधनिवारणम्
dūtavadhanivāraṇam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयत्तस्य वधं रावणः क्रोधमूर्छितः ।।5.52.1।।
Meaning
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतो दौत्यं नानुमेने विभीषणः ।।5.52.2।।
Meaning
तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् । विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ।।5.52.3।।
Meaning
निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम् । उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ।।5.52.4।।
Meaning
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व । वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ।।5.52.5।।
Meaning
राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् । तव चासदृशं वीर कपेरस्य प्रमापणम् ।।5.52.6।।
Meaning
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः । परावरज्ञो भूतानां त्वमेव परमार्थवित् ।।5.52.7।।
Meaning
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः । ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ।।5.52.8।।
Meaning
तस्मात्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । युक्तायुक्तं विनिश्चित्य दूते दण्डो विधीयताम् ।।5.52.9।।
Meaning
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ।।5.52.10।।
Meaning