Sarga 63: Sugrīva's Joy

सुग्रीवहर्षः

sugrīvaharṣaḥ — word-by-word gloss for all 29 shlokas.

Jump to a shloka · 29 in this sarga

Page 1 of 329 shlokas in this sarga (verified max-across-sources)
Shloka 63.1Word-by-word available

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः । दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ।।5.63.1।।

Meaning

Shloka 63.2Word-by-word available

उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम । अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ।।5.63.2।।

Meaning

Shloka 63.3Word-by-word available

स तु विश्वासितस्तेन सुग्रीवेण महात्मना । उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ।।5.63.3।।

Meaning

Shloka 63.4Word-by-word available

नैवर्क्षरजसा राजन्न त्वया नापि वालिना । वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ।।5.63.4।।

Meaning

Shloka 63.5Word-by-word available

एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः । मधून्यचिन्तयित्वेमान्भक्षयन्ति पिबन्ति च ।।5.63.5।।

Meaning

Shloka 63.6Word-by-word available

शिष्टमत्रापविध्यन्ति भक्षयन्ति तथाऽपरे । निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि ।।5.63.6।।

Meaning

Shloka 63.7Word-by-word available

इमे हि संरब्धतरास्तथा तैः सम्प्रधर्षिताः । वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः ।।5.63.7।।

Meaning

Shloka 63.8Word-by-word available

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभ । संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ।।5.63.8।।

Meaning

Shloka 63.9Word-by-word available

पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः । प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ।।5.63.9।।

Meaning

Shloka 63.10Word-by-word available

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि । कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।।5.63.10।।

Meaning