Sarga 5: Searching the Mansions
भवनविचयः
bhavanavicayaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम् । ददर्श धीमान्दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ।।5.5.1।।
Meaning
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ।।5.5.2।।
Meaning
या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था । तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ।।5.5.3।।
Meaning
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः । वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाम्बरस्थः ।।5.5.4।।
Meaning
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः । हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः ।।5.5.5।।
Meaning
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः । प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः ।।5.5.6।।
Meaning
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः । राज्यं समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः ।।5.5.7।।
Meaning
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः । रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ।।5.5.8।।
Meaning
तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः । नक्तञ्चराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ।।5.5.9।।
Meaning
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि । वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि ।।5.5.10।।
Meaning