Sarga 65: The Crest-Jewel Handed Over
चूडामणिप्रदानम्
cūḍāmaṇipradānam — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् । प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ।।5.65.1।।
Meaning
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च । प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ।।5.65.2।।
Meaning
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् । रामे समनुरागं च यश्चायं समयः कृतः ।।5.65.3।।
Meaning
एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ । वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ।।5.65.4।।
Meaning
क्व सीता वर्तते देवी कथं च मयि वर्तते । एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ।।5.65.5।।
Meaning
रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ । चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ।।5.65.6।।
Meaning
श्रुत्वा तु वचनं तेषां हनुमान्मारुतात्मजः । प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।।5.65.7।।
Meaning
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा । समुद्रं लङ्घयित्वाऽहं शतयोजनमायतम् ।।5.65.8।।
Meaning
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया । तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।।5.65.9।।
Meaning
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे । तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।।5.65.10।।
Meaning