Sarga 42: The Kiṅkaras Slain

किङ्करनिषूदनम्

kiṅkaraniṣūdanam — word-by-word gloss for all 43 shlokas.

Page 1 of 543 shlokas in this sarga (verified max-across-sources)
Shloka 42.1Word-by-word available

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च । बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः ।।5.42.1।।

Meaning

Shloka 42.2Word-by-word available

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः । रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ।।5.42.2।।

Meaning

Shloka 42.3Word-by-word available

ततो गतायां निद्रायां राक्षस्यो विकृताननाः । तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।।5.42.3।।

Meaning

Shloka 42.4Word-by-word available

स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः । चकार सुमहद्रूपं राक्षसीनां भयावहम् ।।5.42.4।।

Meaning

Shloka 42.5Word-by-word available

ततस्तं गिरिसङ्काशमतिकायं महाबलम् । राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ।।5.42.5।।

Meaning

Shloka 42.6Word-by-word available

कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः । कथं त्वया सहानेन संवादः कृत इत्युत ।।5.42.6।।

Meaning

Shloka 42.7Word-by-word available

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् । संवादमसितापाङ्गे त्वया किं कृतवानयम् ।।5.42.7।।

Meaning

Shloka 42.8Word-by-word available

अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी । रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ।।5.42.8।।

Meaning

Shloka 42.9Word-by-word available

यूयमेवाभिजानीत योऽयं यद्वा करिष्यति । अहिरेव ह्यहेः पादान्विजानाति न संशयः ।।5.42.9।।

Meaning

Shloka 42.10Word-by-word available

अहमप्यस्य भीताऽस्मि नैनं जानामि कोन्वयम् । वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ।।5.42.10।।

Meaning