Sarga 21: Rāvaṇa Held as Straw
रावणतृणीकरणम्
rāvaṇatṛṇīkaraṇam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
राक्षसानामभावाय त्वं वा न प्रतिपद्यसे । अकृतात्मानमासाद्य राजानमनये रतम् ।।5.21.11।।
Meaning
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च । तथेयं त्वां समासाद्य लङ्का रत्नौघसङ्कुला ।।5.21.12।।
Meaning
अपराधात्तवैकस्य न चिराद्विनशिष्यति । स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।।5.21.13।।
Meaning
अभिनन्दन्ति भूतानि विनाशे पापकर्मणः । एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।।5.21.14।।
Meaning
दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः । शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।।5.21.15।।
Meaning
अनन्या राघवेणाहं भास्करेण प्रभा यथा । उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।।5.21.16।।
Meaning
कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् । अहमौपयिकी भार्या तस्यैव वसुधापतेः ।।5.21.17।।
Meaning
व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः । साधु रावण रामेण मां समानय दुःखिताम् ।।5.21.18।।
Meaning
वने वासितया सार्थं करेण्वेव गजाधिपम् । मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।।5.21.19।।
Meaning
वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः । विदितः स हि धर्मज्ञः शरणागतवत्सलः ।।5.21.20।।
Meaning