Sarga 21: Rāvaṇa Held as Straw
रावणतृणीकरणम्
rāvaṇatṛṇīkaraṇam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि । प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ।।5.21.21।।
Meaning
मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि । एवं हि ते भवेत्स्वस्ति सम्प्रदाय रघूत्तमे ।।5.21.22।।
Meaning
अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण । वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ।।5.21.23।।
Meaning
त्वद्विधं तु न सङ्क्रुद्धो लोकनाथः स राघवः । रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।।5.21.24।।
Meaning
शतक्रतुविसृष्टस्य निर्घोषमशनेरिव । इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।।5.21.25।।
Meaning
इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः । रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।।5.21.26।।
Meaning
असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः । राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् ।।5.21.27।।
Meaning
उद्धरिष्यति वेगेन वैनतेय इवोरगान् । अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ।।5.21.28।।
Meaning
असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः । जनस्थाने हतस्थाने निहते रक्षसां बले ।।5.21.29।।
Meaning
अशक्तेन त्वया रक्षः कृतमेतदसाधु वै । आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।।5.21.30।।
Meaning