Sarga 13: Hanumān's Despondency
हनूमन्निर्वेदः
hanūmannirvedaḥ — word-by-word gloss for all 69 shlokas.
Jump to a shloka · 69 in this sarga
विवेष्टमाना पतिता समुद्रे जनकात्मजा । अहो क्षुद्रेण वानेन रक्षन्ती शीलमात्मनः ।।5.13.11।।
Meaning
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी । अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ।।5.13.12।।
Meaning
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति । सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ।।5.13.13।।
Meaning
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता । हा राम लक्ष्मणेत्येवं हायोध्ये चेति मैथिली ।।5.13.14।।
Meaning
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति । अथवा निहिता मन्ये रावणस्य निवेशने ।।5.13.15।।
Meaning
नूनं लालप्यते सीता पञ्जरस्थेव शारिका । जनकस्य सुता सीता रामपत्नी सुमध्यमा ।।5.13.16।।
Meaning
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् । विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ।।5.13.17।।
Meaning
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् । निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ।।5.13.18।।
Meaning
कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे । अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ।।5.13.19।।
Meaning
भवेदिति मतं भूयो हनुमान्प्रविचारयन् । यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ।।5.13.20।।
Meaning