Sarga 58: Ill Omens Seen
अनिमित्तदर्शनम्
animittadarśanam — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ।।3.58.1।।
Meaning
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ।।3.58.2।।
Meaning
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः । क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ।।3.58.3।।
Meaning
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् । क्व सा प्राणसहाया मे सीता सुरसुतोपमा ।।3.58.4।।
Meaning
पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण । तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ।।3.58.5।।
Meaning
कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम । कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति ।।3.58.6।।
Meaning
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि । कच्चित्सकामा सुखिता कैकेयी सा भविष्यति ।।3.58.7।।
Meaning
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी । उपस्थास्यति कौसल्या कच्चित्सौम्य न केकयीम् ।।3.58.8।।
Meaning
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः । सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ।।3.58.9।।
Meaning
यदि मामाश्रमगतं वैदेही नाभिभाषते । पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ।।3.58.10।।
Meaning