Sarga 43: Lakṣmaṇa's Doubt Answered
लक्ष्मणशङ्काप्रतिसमाधानम्
lakṣmaṇaśaṅkāpratisamādhānam — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती । हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ।।3.43.1।।
Meaning
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी । भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ।।3.43.2।।
Meaning
तयाऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ।।3.43.3।।
Meaning
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ।।3.43.4।।
Meaning
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने । अनेन निहता राजन् राजानः कामरूपिणा ।।3.43.5।।
Meaning
अस्य मायाविदो मायामृगरूपमिदं कृतम् । भानुमत् पुरुषव्याघ्र गन्धर्वपुरसन्निभम् ।।3.43.6।।
Meaning
मृगो ह्येवं विधो रत्नविचित्रो नास्ति राघव । जगत्यां जगतीनाथ मायैषा हि न संशयः ।।3.43.7।।
Meaning
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता । उवाच सीता संहृष्टा चर्मणा हृतचेतना ।।3.43.8।।
Meaning
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः । आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ।।3.43.9।।
Meaning
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः । मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा ।।3.43.10।।
Meaning