Sarga 65: Plea to Restrain His Wrath
क्रोधसंहारप्रार्थना
krodhasaṃhāraprārthanā — word-by-word gloss for all 16 shlokas.
Jump to a shloka · 16 in this sarga
तप्यमानं तथा रामं सीताहरणकर्शितम् । लोकानामभवे युक्तं सांवर्तकमिवानलम् ।।3.65.1।।
Meaning
वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः । दग्धुकामं जगत्सर्वं युगान्ते च यथा हरम् ।।3.65.2।।
Meaning
अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः । अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ।।3.65.3।।
Meaning
पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ।।3.65.4।।
Meaning
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा । एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ।।3.65.5।।
Meaning
एकस्य नापराधेन लोकान्हन्तुं त्वमर्हसि । न तु जानामि कस्यायं भग्नः साङ्ग्रामिको रथः ।।3.65.6।।
Meaning
केन वा कस्य वा हेतोः सायुधः सपरिच्छदः । खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः ।।3.65.7।।
Meaning
देशो निवृत्तसङ्ग्रामः सुघोरः पार्थिवात्मज । एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर ।।3.65.8।।
Meaning
न हि वृत्तं हि पश्यामि बलस्य महतः पदम् । नैकस्य तु कृते लोकान्विनाशयितुमर्हसि ।।3.65.9।।
Meaning
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः । सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ।।3.65.10।।
Meaning