Sarga 24: Khara's Army Draws Near

रामखरबलसंनिकर्षः

rāmakharabalasaṃnikarṣaḥ — word-by-word gloss for all 37 shlokas.

Page 1 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 24.1Word-by-word available

आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवोत्पातिकान् रामः सह भ्रात्रा ददर्श ह ।।3.24.1।।

Meaning

Shloka 24.2Word-by-word available

तानुत्पातान् महाघोरानुत्थितान् रोमहर्षणान् । प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ।।3.24.2।।

Meaning

Shloka 24.3Word-by-word available

इमान् पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ।।3.24.3।।

Meaning

Shloka 24.4Word-by-word available

अमी रुधिरधारास्तु विसृजन्तः खरस्वनान् । व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः ।।3.24.4।।

Meaning

Shloka 24.5Word-by-word available

सधूमाश्च शराः सर्वे मम रुद्धाभिनन्दिताः । रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण ।।3.24.5।।

Meaning

Shloka 24.6Word-by-word available

यादृशा इह कूजन्ति पक्षिणो वनचारिणः । अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ।।3.24.6।।

Meaning

Shloka 24.7Word-by-word available

सम्प्रहारस्तु सुमहान् भविष्यति न संशयः । अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः ।।3.24.7।।

Meaning

Shloka 24.8Word-by-word available

सन्निकर्षे तु नः शूर जयं शत्रोः पराजयम् । सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ।।3.24.8।।

Meaning

Shloka 24.9Word-by-word available

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण । निष्प्रभं वदनं तेषां भवत्यायुःपरिक्षयः ।।3.24.9।।

Meaning

Shloka 24.10Word-by-word available

रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः । आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ।।3.24.10।।

Meaning