Sarga 39: Mārīca Refuses to Help
साहाय्यकानभ्युपगमः
sāhāyyakānabhyupagamaḥ — word-by-word gloss for all 25 shlokas.
Jump to a shloka · 25 in this sarga
एवमस्मि तदा मुक्तः कथञ्चित्तेन सम्युगे । इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम् ।।3.39.1।।
Meaning
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः । सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ।।3.39.2।।
Meaning
दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः । व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ।।3.39.3।।
Meaning
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण । अत्यन्तघोरो व्यचरं तापसान् सम्प्रधर्षयन् ।।3.39.4।।
Meaning
निहत्य दण्डकारण्ये तापसान् धर्मचरिणः । रुधिराणि पिबन्तस्तेषां तथा मांसानि भक्षयन् ।।3.39.5।।
Meaning
ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् । तथा रुधिरमत्तोऽहं विचरन् धर्मदूषकः ।।3.39.6।।
Meaning
आसादयं तदा रामं तापसं धर्मचारिणम् । वैदेहीं च महाभागां लक्ष्मणं च महरथम् ।।3.39.7।।
Meaning
तापसं नियताहारं सर्वभूतहिते रतम् । सोऽहं वनगतं रामं परिभूय महाबलम् ।।3.39.8।।
Meaning
तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् । अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्णश्ङ्गो मृगाकृतिः ।।3.39.9।।
Meaning
जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् । तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ।।3.39.10।।
Meaning