Sarga 61: The Search for Sītā
सीतान्वेषणम्
sītānveṣaṇam — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च विध्वस्तान्यासनानि च ।।3.61.1।।
Meaning
अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ।।3.61.2।।
Meaning
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता । केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ।।3.61.3।।
Meaning
वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ।।3.61.4।।
Meaning
यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः । एते हीनास्त्वया सौम्ये ध्यायन्त्यास्राविलेक्षणाः ।।3.61.5।।
Meaning
सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण । मृतं शोकेन महता सीताहरणजेन माम् ।।3.61.6।।
Meaning
परलोके महाराजो नूनं द्रक्ष्यति मे पिता । कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ।।3.61.7।।
Meaning
अपूरयित्वा तं कालं मत्सकाशमिहागतः । कामवृत्तमनार्यं मां मृषावादिनमेव च ।।3.61.8।।
Meaning
धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता । विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् ।।3.61.9।।
Meaning
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् । क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे ।।3.61.10।।
Meaning