Sarga 3: Virādha Struck Down
विराधप्रहारः
virādhaprahāraḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् । आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ।।3.3.1।।
Meaning
तमुवाच ततो रामो राक्षसं ज्वलिताननम् । पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ।।3.3.2।।
Meaning
क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ । त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ।।3.3.3।।
Meaning
तमुवाच विराधस्तु रामं सत्यपराक्रमम् । हन्त वक्ष्यामि ते राजन्निबोध मम राघव ।।3.3.4।।
Meaning
पुत्रः किल जयस्याहं मम माता शतह्रदा । विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ।।3.3.5।।
Meaning
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा । शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ।।3.3.6।।
Meaning
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् । त्वरमाणौ पलायेथां न वां जीवितमाददे ।।3.3.7।।
Meaning
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः । राक्षसं विकृताकारं विराधं पापचेतसम् ।।3.3.8।।
Meaning
क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् । रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि ।।3.3.9।।
Meaning
ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान् । सुशीघ्रमभिसन्धाय राक्षसं निजघान ह ।।3.3.10।।
Meaning