Sarga 54: Arrival in Laṅkā
लङ्काप्रापणम्
laṅkāprāpaṇam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ।।3.54.1।।
Meaning
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च ।।3.54.2।।
Meaning
मुमोच यदि रामाय शंसेयुरिति मैथिली । वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ।।3.54.3।।
Meaning
सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् । पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ।।3.54.4।।
Meaning
विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः । स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ।।3.54.5।।
Meaning
जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः । तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ।।3.54.6।।
Meaning
उत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् । वनानि सरितः शैलान् सरांसि च विहायसा ।।3.54.7।।
Meaning
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः । तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ।।3.54.8।।
Meaning
सरितां शरणं गत्वा समतीयाय सागरम् । सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ।।3.54.9।।
Meaning
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः । अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ।।3.54.10।।
Meaning