Sarga 53: Sītā Reviles Rāvaṇa
रावणभर्त्सनम्
rāvaṇabhartsanam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा । दुःखिता परमोद्विग्ना भये महति वर्तिनी ।।3.53.1।।
Meaning
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ।।3.53.2।।
Meaning
न व्यपत्रपसे नीच कर्मणानेन रावण । ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ।।3.53.3।।
Meaning
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता । ममापवाहितो भर्ता मृगरूपेण मायया ।।3.53.4।।
Meaning
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः । गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ।।3.53.5।।
Meaning
परमं खलु ते वीर्यं दृश्यते राक्षसाधम । विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ।।3.53.6।।
Meaning
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे । स्त्रियाश्च हरणं नीच रहिते तु परस्य च ।।3.53.7।।
Meaning
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ।।3.53.8।।
Meaning
धिक् ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा । कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ।।3.53.9।।
Meaning
किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि । मुहूर्तमपि तिष्ठस्व न जीवन् प्रतियास्यसि ।।3.53.10।।
Meaning