Sarga 29: Khara's Mace Shattered
खरगदाभेदनम्
kharagadābhedanam — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ।।3.29.1।।
Meaning
गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ।।3.29.2।।
Meaning
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोपि न तिष्ठति ।।3.29.3।।
Meaning
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर । तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ।।3.29.4।।
Meaning
लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते । भ्रष्टाः पश्यति तस्यान्तं ब्राह्मणी करकादिव ।।3.29.5।।
Meaning
वसतो दण्डकारण्ये तापसान् धर्मचारिणः । किंनु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ।।3.29.6।।
Meaning
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः । ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ।।3.29.7।।
Meaning
अवश्यं लभते जन्तुः फलं पापस्य कर्मणः । घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ।।3.29.8।।
Meaning
न चिरात्प्राप्यते लोके पापानां कर्मणां फलम् । सविषाणामिवान्नानां भुक्तानां क्षणदाचर ।।3.29.9।।
Meaning
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् । अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर ।।3.29.10।।
Meaning