Sarga 51: Jaṭāyu's Battle with Rāvaṇa
जटायूरावणयुद्धम्
jaṭāyūrāvaṇayuddham — word-by-word gloss for all 46 shlokas.
Jump to a shloka · 46 in this sarga
इत्युक्तस्य यथान्यायं रावणस्य जटायुषा । क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ।।3.51.1।।
Meaning
संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः । राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ।।3.51.2।।
Meaning
स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने । बभूव वातोद्धतयोर्मेघयोर्गगने यथा ।।3.51.3।।
Meaning
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा । सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ।।3.51.4।।
Meaning
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ।।3.51.5।।
Meaning
स तानि शरजालानि गृध्रः पत्ररथेश्वरः । जटायुः प्रतिजग्राह रावणास्त्राणि सम्युगे ।।3.51.6।।
Meaning
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः । चकार बहुधा गात्रे व्रणान् पतगसत्तमः ।।3.51.7।।
Meaning
अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान् घोरान् शत्रुमर्दनकाङ्क्षया ।।3.51.8।।
Meaning
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः । बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः ।।3.51.9।।
Meaning
स राक्षसरथे पश्यन् जानकीं बाष्पलोचनाम् । अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रवत् ।।3.51.10।।
Meaning