Sarga 70: Kabandha's Arms Cut Off
कबन्धबाहुच्छेदः
kabandhabāhucchedaḥ — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ।।3.70.1।।
Meaning
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ । आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ।।3.70.2।।
Meaning
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । उवाचार्तिं समापन्नो विक्रमे कृतनिश्चयः ।।3.70.3।।
Meaning
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः । तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ।।3.70.4।।
Meaning
भीषणोऽयं महाकायो राक्षसो भुजविक्रमः । लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ।।3.70.5।।
Meaning
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः । क्रतुमध्योपनीतानां पशूनामिव राघव ।।3.70.6।।
Meaning
एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः । विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत् ।।3.70.7।।
Meaning
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ । अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः ।।3.70.8।।
Meaning
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः । चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ।।3.70.9।।
Meaning
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः । खं च गां च दिशश्चैव नादयन् जलदो यथा ।।3.70.10।।
Meaning