Sarga 63: Brooding on Sorrow
दुःखानुचिन्तनम्
duḥkhānucintanam — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
स राजपुत्रः प्रियया विहीनः कामेन शोकेन च पीड्यमानः । विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम् ।।3.63.1।।
Meaning
स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः । उवाच वाक्यं व्यसनानुरूपमुष्णं विनिःश्वस्य रुदन् सशोकम् ।।3.63.2।।
Meaning
न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम् । शोकेन शोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च ।।3.63.3।।
Meaning
पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि । तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ।।3.63.4।।
Meaning
राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः । सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि ।।3.63.5।।
Meaning
सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम् । सीतावियोगात्पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसा प्रदीप्तः ।।3.63.6।।
Meaning
सा नूनमार्या मम राक्षसेन बलाद्धृता खं समुपेत्य भीरुः । अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ।।3.63.7।।
Meaning
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य । वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः ।।3.63.8।।
Meaning
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् । रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ।।3.63.9।।
Meaning
तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः । रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ।।3.63.10।।
Meaning