Sarga 23: Evil Portents
उत्पातदर्शनम्
utpātadarśanam — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
तस्मिन् याते जनस्थानादशिवं शोणितोदकम् । अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ।।3.23.1।।
Meaning
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ।।3.23.2।।
Meaning
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् । अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ।।3.23.3।।
Meaning
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् । समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ।।3.23.4।।
Meaning
जनस्थानसमीपे तु समागम्य खरस्वनाः । विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ।।3.23.5।।
Meaning
व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् । अशिवं यातुधानानां शिवा घोरा महास्वनाः ।।3.23.6।।
Meaning
प्रभिन्नगिरिसङ्काशास्तोयशोणितधारिणः । आकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः ।।3.23.7।।
Meaning
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् । दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ।।3.23.8।।
Meaning
क्षतजार्द्रसवर्णाभा सन्ध्या कालं विना बभौ । खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ।।3.23.9।।
Meaning
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः । नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ।।3.23.10।।
Meaning