Sarga 66: Counsel on Right Conduct
औचित्यप्रबोधनम्
aucityaprabodhanam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
तं तथा शोकसन्तप्तं विलपन्तमनाथवत् । मोहेन महताविष्टं परिद्यूनमचेतनम् ।।3.66.1।।
Meaning
ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः । रामं सम्बोधयामास चरणौ चाभिपीडयन् ।।3.66.2।।
Meaning
महता तपसा राम महता चापि कर्मणा । राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः ।।3.66.3।।
Meaning
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः । राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ।।3.66.4।।
Meaning
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे । प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति ।।3.66.5।।
Meaning
दुःखितो हि भवांल्लोकान्तेजसा यदि धक्ष्यते । आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् ।।3.66.6।।
Meaning
आश्वासिहि नरश्रेष्ठ प्राणिनः कस्य नापदः । संस्पृश त्वग्निवद्राजन् क्षणेन व्यपयान्ति च ।।3.66.7।।
Meaning
लोकस्वभाव एवैष ययातिर्नहुषात्मजः । गतः शक्रेण सालोक्यमनयस्तं तमः स्पृशत् ।।3.66.8।।
Meaning
महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ।।3.66.9।।
Meaning
या चेयं जगतां माता देवी लोकनमस्कृता । अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव ।।3.66.10।।
Meaning