Sarga 14: Meeting Jaṭāyu
जटायुःसङ्गमः
jaṭāyuḥsaṅgamaḥ — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः । आससाद महाकायं गृध्रं भीमपराक्रमम् ।।3.14.1।।
Meaning
तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ।।3.14.2।।
Meaning
स तौ मधुरया वाचा सौम्यया प्रीणयन्निव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ।।3.14.3।।
Meaning
स तं पितृसखं बुद्ध्वा पूजयामास राघवः । स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ।।3.14.4।।
Meaning
रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् । आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च ।।3.14.5।।
Meaning
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान्मे निगदतः सर्वानादितः शृणु राघव ।।3.14.6।।
Meaning
कर्दमः प्रथमस्तेषां विश्रुतस्तदनन्तरः । शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ।।3.14.7।।
Meaning
स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः । पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ।।3.14.8।।
Meaning
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव । कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ।।3.14.9।।
Meaning
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् । षष्टिर्दुहितरो राम यशस्विन्यो महायशः ।।3.14.10।।
Meaning