Sarga 36: Rāvaṇa Seeks an Ally
सहायैषणा
sahāyaiṣaṇā — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
मारीच श्रूयतां तात वचनं मम भाषतः । आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः ।।3.36.1।।
Meaning
जानीषे त्वं जनस्थाने यथा भ्राता खरो मम । दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ।।3.36.2।।
Meaning
त्रिशिराश्च महातेजा राक्षसः पिशिताशनः । अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ।।3.36.3।।
Meaning
वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः । बाधमाना महारण्ये मुनीन् वै धर्मचारिणः ।।3.36.4।।
Meaning
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ।।3.36.5।।
Meaning
ते त्विदानीं जनस्थाने वसमाना महाबलाः । सङ्गताः परमायत्ता रामेण सह सम्युगे ।।3.36.6।।
Meaning
नानाप्रहरणोपेताः खरप्रमुखराक्षसाः । तेन सञ्जातरोषेण रामेण रणमूर्धनि ।।3.36.7।।
Meaning
अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः । चतुर्दशसहस्राणि रक्षसामुग्रतेजसाम् ।।3.36.8।।
Meaning
निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना । खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः ।।3.36.9।।
Meaning
हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः । पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।।3.36.10।।
Meaning