Sarga 20: Fourteen Rākṣasas Slain

चतुर्दशरक्षोवधः

caturdaśarakṣovadhaḥ — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 1 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 20.1Word-by-word available

ततः शूर्पणखा घोरा राघवाश्रममागता । रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ।।3.20.1।।

Meaning

Shloka 20.2Word-by-word available

ते रामं पर्णशालायामुपविष्टं महाबलम् । ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ।।3.20.2।।

Meaning

Shloka 20.3Word-by-word available

तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् । अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ।।3.20.3।।

Meaning

Shloka 20.4Word-by-word available

मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः । इमानस्या वधिष्यामि पदवीमागतानिह ।।3.20.4।।

Meaning

Shloka 20.5Word-by-word available

वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ।।3.20.5।।

Meaning

Shloka 20.6Word-by-word available

राघवोऽपि महच्चापं चामीकरविभूषितम् । चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ।।3.20.6।।

Meaning

Shloka 20.7Word-by-word available

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ।।3.20.7।।

Meaning

Shloka 20.8Word-by-word available

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ । वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ।।3.20.8।।

Meaning

Shloka 20.9Word-by-word available

युष्मान्पापात्मकान् हन्तुं विप्रकारान् महाहवे । ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ।।3.20.9।।

Meaning

Shloka 20.10Word-by-word available

तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ । यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ।।3.20.10।।

Meaning