Sarga 47: Sītā Rebukes Rāvaṇa

रावणाधिक्षेपः

rāvaṇādhikṣepaḥ — word-by-word gloss for all 50 shlokas.

Page 1 of 550 shlokas in this sarga (verified max-across-sources)
Shloka 47.1Word-by-word available

रावणेन तु वैदेही तदा पृष्ठा जिहीर्षता । परिव्राजकलिङ्गेन शशंसात्मानमङ्गना ।।3.47.1।।

Meaning

Shloka 47.2Word-by-word available

ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ।।3.47.2।।

Meaning

Shloka 47.3Word-by-word available

दुहिता जनकस्याहं मैथिलस्य महात्मनः । सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ।।3.47.3।।

Meaning

Shloka 47.4Word-by-word available

उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने । भुञ्जानान्मानुषान्भोगान् सर्वकामसमृद्धिनी ।।3.47.4।।

Meaning

Shloka 47.5Word-by-word available

ततस्त्रयोदशे वर्षे राजामन्त्रयत प्रभुः । अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ।।3.47.5।।

Meaning

Shloka 47.6Word-by-word available

तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारमार्या सा याचते वरम् ।।3.47.6।।

Meaning

Shloka 47.7Word-by-word available

प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे । मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ।।3.47.7।।

Meaning

Shloka 47.8Word-by-word available

द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् । नाद्य भोक्ष्ये न च स्वप्स्ये न च पास्ये कथञ्चन ।।3.47.8।।

Meaning

Shloka 47.9Word-by-word available

एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते । इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ।।3.47.9।।

Meaning

Shloka 47.10Word-by-word available

अयाचतार्थैरन्वर्थैर्न च याञ्चां चकार सा । मम भर्ता महातेजा वयसा पञ्चविंशकः ।।3.47.10।।

Meaning