Sarga 48: Rāvaṇa's Boasting

रावणविकत्थनम्

rāvaṇavikatthanam — word-by-word gloss for all 24 shlokas.

Jump to a shloka · 24 in this sarga

Page 1 of 324 shlokas in this sarga (verified max-across-sources)
Shloka 48.1Word-by-word available

एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ।।3.48.1।।

Meaning

Shloka 48.2Word-by-word available

भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ।।3.48.2।।

Meaning

Shloka 48.3Word-by-word available

यस्य देवाः स गन्धर्वाः पिशाचपतगोरगाः । विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ।।3.48.3।।

Meaning

Shloka 48.4Word-by-word available

येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे । द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ।।3.48.4।।

Meaning

Shloka 48.5Word-by-word available

यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ।।3.48.5।।

Meaning

Shloka 48.6Word-by-word available

यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् । वीर्यादेवार्जितं भद्रे येन यामि विहायसम् ।।3.48.6।।

Meaning

Shloka 48.7Word-by-word available

मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ।।3.48.7।।

Meaning

Shloka 48.8Word-by-word available

यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । तीव्रांशुः शिशिरांशुश्च भयात्सम्पद्यते रविः ।।3.48.8।।

Meaning

Shloka 48.9Word-by-word available

निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ।।3.48.9।।

Meaning

Shloka 48.10Word-by-word available

मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ।।3.48.10।।

Meaning