Sarga 56: A Year's Respite Set

वत्सरावधिकरणम्

vatsarāvadhikaraṇam — word-by-word gloss for all 36 shlokas.

Page 1 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 56.1Word-by-word available

सा तथोक्ता तु वैदेही निर्भया शोककर्शिता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ।।3.56.1।।

Meaning

Shloka 56.2Word-by-word available

राजा दशरथो नाम धर्मसेतुरिवाचलः । सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ।।3.56.2।।

Meaning

Shloka 56.3Word-by-word available

रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः । दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम ।।3.56.3।।

Meaning

Shloka 56.4Word-by-word available

इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः । लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् हरिष्यति ।।3.56.4।।

Meaning

Shloka 56.5Word-by-word available

प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् । शयिता त्वं हतः सङ्ख्ये जनस्थाने यथा खरः ।।3.56.5।।

Meaning

Shloka 56.6Word-by-word available

य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः । राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ।।3.56.6।।

Meaning

Shloka 56.7Word-by-word available

तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः । शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः ।।3.56.7।।

Meaning

Shloka 56.8Word-by-word available

असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण । उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ।।3.56.8।।

Meaning

Shloka 56.9Word-by-word available

स ते जीवितशेषस्य राघवोऽन्तकरो बली । पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ।।3.56.9।।

Meaning

Shloka 56.10Word-by-word available

यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा । रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ।।3.56.10।।

Meaning