Sarga 49: Sītā Carried Off
सीतापहरणम्
sītāpaharaṇam — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ।।3.49.1।।
Meaning
स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ।।3.49.2।।
Meaning
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ।।3.49.3।।
Meaning
अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्निर्भिन्द्यां हि महीतलम् । कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ।।3.49.4।।
Meaning
एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे । क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ।।3.49.5।।
Meaning
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः । स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ।।3.49.6।।
Meaning
संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः । क्रोधेन महताविष्टो नीलजीमूतसन्निभः ।।3.49.7।।
Meaning
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः । स परिव्राजकच्छद्म महाकायो विहाय तत् ।।3.49.8।।
Meaning
प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः । संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ।।3.49.9।।
Meaning
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् । स तामसितकेशान्तां भास्करस्य प्रभामिव ।।3.49.10।।
Meaning